Download this page in

॥ महाकविकालिदासस्य नाटकेषु रसनिरूपणम् ॥

अभिज्ञानशाकुन्तले रसनिरूपणम् ।

रसव्यञ्जनादृष्टौ अभिज्ञानशाकुन्तलस्य महत्त्वं सर्वोपरि वर्तते । अस्मिन् सम्भोग: विप्रलम्भश्च श्रृङ्गारद्वयं वर्तते । द्वयोरपि श्रृङ्गारयो: मन्दाकिनी महाकविना हृदयस्पर्शी प्रवाहिता यस्यां निमज्जनं कृत्वा सहृदयस्य आनन्दातिरेक: सञ्जायते । तथापि अत्र सम्भोगश्रृङ्गार: प्रमुख: वर्तते तथा विप्रलम्भश्रृङ्गार:, वीर: अद्भुत: करूण: हास्य: भयानक: रौद्र: शान्तश्च गौणरसा: सन्ति । केषांचित् मतानुसारमत्र विप्रलम्भश्च आधिक्यात् स एव मुख्य: । किन्तु संस्कृतनाटकानां सुखान्तत्वात् मतमिदं स्वयमेव दूरीभवति ।

तृतीयाङ्के सप्तमाङ्के च सम्भोगश्रृङ्गार: अस्ति । श्रृङ्गाररसस्य नाटकानि विप्रलम्भयुतानि भवन्त्येव । यत: विप्रलम्भानन्तरमुद्भूत: सम्भोगश्रृङ्गार: अधिक: आनन्ददायक: भवति । नाटकसमाप्तौ यस्य रसस्य प्रभाव: सहृदयहृदये स्थायी भवति स एव मुख्यरस: । अत: अत्र सम्भोगश्रृङ्गार: एव प्रमुख: रस: इति उचितं प्रतीयते । विप्रलम्भस्य एकमुदाहरणं यथा –
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपा: ।
दाक्षिण्येन ददाति वाचमुचितामन्त: पुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति च व्रीडीविलक्षश्चिरम् ॥[1]

अत्र शकुन्तलाअवियोगात् खिन्नस्य दुष्यन्तस्य दशां वर्णयन् कञ्चुकि वक्ति । राज्ञ: विप्रलम्भ: अत्र परमचरमोत्कर्षी दृश्यते ।

सम्भोगश्रृङ्गार: यथा –

अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥[2]

शकुन्तलां पश्यन् तां प्रति दुष्यन्तस्य उक्तिरियम् । अत्र स्थित: सम्भोग: श्रृङ्गार: सहृदयानां चेतसि श्रृङ्गारं मदनं च उत्पादयति । श्रृङ्गार निरूपणे कवे: साफल्यं पदे पदे दृष्टिपथमायाति ।

द्वितीयाङ्के विदूषकप्रसङ्ग: हास्यरसं जनयति । विदूषकस्य दशा, चेष्टा:, संवाद:, तर्क – वितर्कादय: निर्मलं हास्यं सूचयन्ति । अत एव द्वितीयाङ्कान्ते राजा वदति यत् –
“पारिहास विजल्पितं सखे !
परमार्थिन न गृह्यतां वच: ।”[3]

चतुर्थाङ्कस्य मुख्य: रस: करुण: वर्तते । अत्र शकुन्तलाया: पतिगृहगमने कण्वस्य वैक्लव्यं कारुण्यं जनयति । यथा –
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठ: स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरव्यौकस:
वीरूपन्ते गृहिण: कथं न तनयाविश्लेषदुखैर्नवै: ॥[4]

अयं श्लोक: सांसारिकानां मनसि पुत्रीं प्रति किदृक् प्रेम स्यादिति प्रतिपादयति । चतुर्थाङ्के करूण: चरमोत्कर्ष वर्तते ।

पञ्चमाङ्के दुष्यन्तशकुन्तलयो: वाक्कलहप्रसङ्गेन सह राज्ञ: वचोभि: दु:खिताया: शकुन्तलाया: वचनेषु रौद्ररस: दरीदृश्यते । राक्षसानां विनाशकरणे प्रथमाकान्ते वीररस: अपि दृग्गोचरी भवति । मृगप्रसङ्गे कविनां भयानकरस: वर्णित: यथा –
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टि:
पश्चार्द्धेन प्रविष्ट: शरपतनभयाद् भूयसा पूर्वकार्यम् ।
दर्भैरर्धावलीढै: श्रमविवृतमुखभ्रंशिभि: कीर्णवर्त्मा
पश्चोद्ग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥[5]

चतुर्थाङ्के आकाशवाणीप्रसङ्गे, वनदेवताया: दत्ताभूषणप्रसङ्गे, पञ्चमाङ्के अप्सरातीर्थसमीपं शकुन्तलाया: अदृश्यत्वप्रसङ्गे, सप्तमाङ्के स्वर्गात् प्रतिनिर्गमन प्रसङ्गे च अद्भुतरसस्य परिपाक: दृश्यते । सप्तमाङ्के पृथिव्या: दूरं गत: राजा पृथ्विं वर्णयति यथा –
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णस्वान्तरलीनतां विजहति स्कन्धोदयात्पादपा: ।
संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगा:
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥[6]

अत्र स्थित: अद्भुतरस: दर्शकानां मनसि चमत्कारं जनयति । तथैव सप्तमाङ्कस्य प्रारम्भे दर्शिता: प्रसङ्गा: अद्भुतरसप्रधाना: वर्तन्ते ।

सप्तमाङ्कान्ते कश्यपऋषे: सान्निध्ये शान्तर: अनुभूयते । कश्यपाश्रमवर्णने राज्ञ: उक्तौ शान्तरसस्य प्रतीति: सञ्जायते यथा –
प्राणानामनिलेन वृत्तिरूचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥[7]

इत्थमभिज्ञानशाकुन्तले बीभत्सं रसं विहाय विविधा: रसा: महाकविनां यथावसरं निरूपिता: सन्ति ।

विक्रमोर्वशीये रसनिरूपणम् ।

विक्रमोर्वशीये महाकविना अधिका: रसा: न प्रयोक्ता: । अस्य त्रोटकस्य मुख्य: रस: सम्भोगश्रृङ्गार:, गौणतया विप्रलम्भश्रृङ्गार: वीर: अद्भुतरसस्र्वात्र वर्णित: वर्तते । रसपरिपाकदृष्ट्या अस्मिन् त्रोटके कालिदासस्य तादृग् नौपुण्यं न दृश्यते यादृक् अभिज्ञानशाकुन्तले । तथा अत्र प्रसङ्गयोजना अपि क्वचित् रसास्वादे हानिं करोति । तथापि त्रोटकमिदं जगति प्राप्तप्रतिष्ठं वर्तते ।

अत्र प्रथमाङ्के उर्वश्या: रक्षणे राज्ञ: पराक्रमद्वारा वीररस: अभिव्यज्यते । प्रारम्भे एव वीर पराक्रमत्वात् उर्वशी तस्मिन् राजनि आकर्षिता भवति । स्वर्गगमनावसरे उर्वश्या: राजानं दृष्टुम् इच्छा श्रृङ्गारभावं प्रकटयति । राज्ञ: उर्वशीं प्रति उक्तानि वचांसि राज्ञ: मनसि स्थितरते: भावं दर्शयन्ति ।

चतुर्थाङ्के उर्वश्या: लतारूपे प्राप्ते सति राज्ञ: दशा विप्रलम्भश्रृङ्गारे प्रकटयति । यथा इयमुक्ति:
“तिष्ठेत् कोपवशात् प्रभावपिहिता दीर्घं न सा कूप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या: मन: ।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ता: पुरोवर्तिनीं
सा चात्यन्तमदर्शनं नयनयोर्यातेति कोऽयं विधि: ॥”[8]

अत्र राज्ञ: शङ्का: ताभि: तस्य दु:खं च ज्ञायते । उर्चश्या: अन्वेषणे पुन: राज्ञ: इयमुक्ति: वियोग दु:खावस्थां प्रतिपादयति –
आरक्तराजिभिरयं कुसुमैर्नवकन्दलीसलिलगर्भै: ।
कोपादन्तर्बाष्पे स्मरयति मां लोचने तस्या: ॥[9]

एवमेव मयूरं प्रति, वायुं प्रति, पर्वतं प्रति, हंसं प्रति, गजं प्रति, मृगं प्रति, वृक्षान् प्रति राज्ञ: मणिस्पर्शानन्तरं संयोगश्रृङ्गार: यथा –
त्वद् – वियोगोद्भवे तन्वि मया तमसि मज्जता ।
दिष्ट्या प्रत्युपलब्धाऽसि चेतनेव गतासुना ॥[10]

पञ्चमाङ्के नारदसमाचरेण ज्ञायते यत् उर्वशी राज्ञ: समीपमेव भविष्यति । तस्या: पृथिव्यामेव पुरूरवस: समक्षं स्थितिर्भविता इति चिरं सम्भोगश्रृङ्गारं दर्शयति ।

प्रथमाङ्के रथवर्णने[11] , गन्धर्वचित्ररथस्य आगमने[12] च अद्भुतरस: अभिव्यज्यते । अग्रे चतुर्थे अङ्के अपि राज्ञ: उर्वश्याश्च पुनरागमने[13] अद्भुतरसस्य प्रतीति: सञ्जायते । इत्थं महाकविकालिदासेन विक्रमोर्वशीये यथावसरं यथायोग्यं रसनामभिव्यञ्जनं कारितमस्ति ।

मालविकाग्निमित्रे रसनिरूपणम् ।

मालविकाग्निमित्रे मुख्यरस: श्रृङगार: अस्ति । गौणतया अत्र हास्यरस: एव दृश्यते । अन्यानां रसानामभाव: कथयति यदियं कृति: महाकवे: कालिदासस्य प्रथमा कृति: स्यात् । अत्र सम्भोगश्रृङ्गार: विप्रलम्भश्च वर्णित: वर्तते । विप्रलम्भ: यथा –
शरीरं क्षामं स्यादसतू दयितालिङ्गनसुखे
भवेत्सास्रं चक्षु: क्षणमपि न सा दृश्यत इति ।
तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं
प्रसक्ते निर्वाणे हृदय परितापं वहसि किम् ॥[14]

अत्र राज्ञ: उक्तौ मालविकाया: प्रियवियोगे कृशत्वंतेन च विप्रलम्भश्रृङ्गार: व्यज्यते । तथा तृतीयाङ्के प्रियतमस्य अराप्तौ जीवनं अनुभवती मालविका विप्रलम्भश्रृङ्गारस्य परमचरमोत्कर्षं जनयति । संयोग: श्रृङ्गार: यथाअ –
त्वदुपलभ्य समीपगतां प्रियां
हृदयमुच्छ्वसितं मम विक्लवम् ।
तरूवतां पथिकस्य जलार्थिन:
सरितमारसितादिव सारसात् ॥[15]

अत्र मलाविका – प्राप्तौ राज्ञ: व्याकुलहृदयस्य शान्तत्वं संयोगश्रृङ्गारं सूचयति ।

द्वितीयाङ्के मालविकावर्णने श्रृङ्गार: यथा –
वामं सान्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमेकुट्टिमे पातिताक्षं
नृत्तादस्या: स्थितमतितरां कान्तमृज्वायतार्धम् ॥[16]

यथा वा –
हस्तं कम्पवती रूणद्धि रशनाव्यापारलोलाङ्गलि
हस्तौ स्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलचक्षुरून्नमयत: साचीकरोत्याननं
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥[17]

इत्थमनेकेषु स्थलेषु श्रृङ्गारोऽभिव्यज्यते । अत्र राज्ञ: मालविकायाश्च हृदये परस्परं प्रीति: रति: स्थायी भावोऽस्ति । द्वावपि परस्परमालम्बनविभावौ स्त: । तृतीयाङ्के वसन्तवर्णनादय: प्रसङ्गा: उद्दीपनविभावास्सन्ति । द्वयो: चेष्टा अनुभाव:, द्वयो: अवस्था व्यभिचारिभाव: वर्तते । तदतिरिच्य हास्यरस: अपि सरलं सुन्दरं हास्यं जनयति । यथा –“भवति श्याम उरभ्रसंपातम् । किं मुधा वेतनदानेन ?[18] “सुष्ठु भवति भवति । भो: गणदास ! संगीतोपदेशेन सरस्वत्युपायनमोदकान्खादत: किं ते सुलभ – निग्रहेण विवादेन ?[19] तथा सर्पदंशप्रसङ्गे[20] विदूषक: हास्यमुत्पादयति ।

इत्थं हि मालविकाग्निमित्रे महाकविना रसाभिव्यञ्जनं सफलं प्रेक्षकाणां मनोहारि च कृतं वर्तते इति ।

अभिज्ञानशाकुन्तलं तु महाकवे: परिणतप्रज्ञाया: फलं वर्तते । अत्र प्रथमाङ्कादारभ्य अन्तिमं यावत् श्रृङ्गाररस: स्थायी दृश्यत एव । किञ्च तेन सह वीर – हास्य – करूण – रौद्र – भयानक – शान्तरसा: अपि कविलेखन्या अभिव्यञ्जताङ्गता: दृश्यन्ते ।

विक्रमोर्वशीयं द्वितीयं नाटकं महाकवे: इति विद्वांस: मन्यन्ते । अस्मिन् नाटके कविना श्रृङ्गारवीररसाभ्यां सह अद्भुतरसोऽपि अभिव्यञ्जित: । यतो हि एवमेव साफल्यं न प्राप्यते अत: क्रमश: महाकविकालिदासस्य नाटकेषु रसाभिव्यञ्जनं सिद्धतां संप्राप्तम् इति दरीदृश्यते ।

मालविकाग्निमित्रं महाकविकालिदासस्य प्रथमं नाटकमस्ति । अत: तस्मिन्नाटके रसाभिव्यञ्जने महाकवे: लेखनी किञ्चिद् अवरूद्धा अभावदिति दृश्यते । तथापि श्रृङ्गार – हास्ययो: सफालाभिव्यञ्जनं तेन कृतमिति ।

इत्थमेवास्मिन् शोधपत्रे षट्सु प्रकरणेषु विविधविषयै: सह “महाकविकालिदासस्य नाटकेषु रसनिरूपणम् ” इति विषये किञ्चित मम मत्यानुसारं प्रस्तुतोस्मि ।

॥ सन्दर्भ॥

1. अभिज्ञानशाकुन्तले – ६-५
2. अभिज्ञानशाकुन्तले – ३.२१
3. अभिज्ञानशाकुन्तले - २-१८
4. अभिज्ञानशाकुन्तले – ४-५
5. अभिज्ञानशाकुन्तले – १-७
6. अभिज्ञानशाकुन्तले – ७-८
7. अभिज्ञानशाकुन्तले - ७-१२
8. विक्रमोर्वशीये – ४-९ ।
9. विक्रमोर्वशीये – ४-१५
10.विक्रमोर्वशीये – ४-७१
11.अग्रे यान्ति रथस्य रेणु – पदवीं चूर्णीभवन्तो घना:
चक्रभ्रान्तिररान्तरेषु विततोत्यन्यामिवोरावलीम् ।
चित्रन्यस्तमिवचलं हयशिरस्यायामवच्चामरं
यष्ट्यग्रे च्ज समं स्थितो ध्वजपट: प्रान्ते च वेगानिलात् ॥१-५॥
12.अयञ्च गगनात् कोऽपि तप्त – चामीकराङ्गद: ।
अवरोहति शैलाग्रं तडित्वानिव तोयद: ॥ १-१५ ॥
13.अचिर – प्रभा – विलसोतै: पताकिना
सुरकार्मुकाभिनव – चित्रशोभिना ।
गमितेन खेलगमने विमानतां
तय मां नवेन वसतिं पयोमुचा ॥ ४-७५ ॥
14. मालविकाग्निमित्रे – ३-१
15. मालविकाग्निमित्रे – ३-६
16. मालविकाग्निमित्रे – २-६
17. मालविकाग्निमित्रे – ४-१५
18. मालविकाग्निमित्रे – द्वितीयाङ्के ।
19. मालविकाग्निमित्रे - द्वितीयाङ्के
20. मालविकाग्निमित्रे – तृतीयाङ्के

॥ सन्दर्भसूचि ॥

१. अभिज्ञानशाकुन्तलम्
२. मालविकाग्निमित्रम्
३. विक्रमोर्वशीयम्
४. नाट्यदर्पणम्