।। वाक्यं रसात्मकं काव्यम् ।।
(काव्य-लक्षणम्)


भावानुभूतिमद् वाक्यं रैसवद् ध्वनिसंगतम् ।
गुणालंकारसंजुष्टं काव्यं रम्यार्थद्योतकम् ।।(कपिलस्य)

काव्यस्योद्देश्यम् – असारेऽस्मिन् संसारे दुःख-दावाग्नि-दग्धस्य आधि-व्याधि-प्रपीडितस्य पापादिविषण्णस्य मायामोहःभ्रान्तचेतसो मानववृन्दस्य मनः – सन्तापनिवारणाय चेतः-प्रसादाय सुखावाप्तये च विद्वद्घौरेयाः तत्त्वज्ञाः काव्यशास्त्रनामकं रत्नं वाङ्मयमहोदधेः सारभूतम् उददीधरन् । रत्नमेतत् चतुर्वर्गावाप्तिसाधनं ब्रह्मानन्दसहोदरं रसम् आस्वाद्यतया जनयद् गौरवम् अलभत । काव्यं हि यशसेऽर्थलाभाय व्यवहारज्ञानाय पापविनाशाय परमानन्दलाभाय कान्तासंमित-कर्तव्योपदेशाय च प्रशस्यते । उक्तं च मम्मटेन –

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यःपर-निर्वृतये कान्तासंमिततयोपदेशयुजे ।। [1]

काव्यं हि नवरसरुचिरत्वाद् नियतिकृतनियमरहितत्वाद् आह्लादजनकत्वाद् अनन्यपरतन्त्रत्वाद् ब्रह्मकृतां सृष्टिमपि अतिशेते । एतदेव विशदीक्रियते मम्मटेन –

नियतिकृतनियमरहितां ह्लादैकमयीयनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।। [2]

काव्यलक्षणम् – किं तावत् काव्यमिति विचारचर्चायाम् अनेकानि काव्यलक्षणानि दृष्टिपथम् अवतरन्ति । परमद्यावधि नैकमपि लक्षणं निर्दुष्टं सर्वसंमतं वा । भरतस्य नाट्यशास्त्रे प्राचीनतमं लक्षणम् उपलभ्यते –

मृदु-ललित-पदाढ्यं गूढशब्दार्थहीनं
जनपदसुखबोध्यं युक्तिमन्नृत्ययोग्यम् ।
बहुकृतरसमार्गं सन्धि-सन्धान-युक्तं
भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ।। [3]

अत्र मुख्यतो दृश्यकाव्यमेव परिभाष्यते । अग्निपुराणे सर्वप्रथमं काव्यलक्षणं निर्दिश्यते –

संक्षेपाद् वाक्यमिष्टार्थव्यवच्छिन्ना पदावली ।
काव्यं स्फुरदलंकारं गुणवद् दोषवर्जितम् ।। [4]

अत्र काव्यस्य पञ्च तत्त्वानि स्वीक्रियते – इष्टार्थः, संक्षिप्तं वाक्यम्, अलंकाराः, गुणाः, दोषाश्चेति । एतेन काव्यस्य बाह्यरुपरेखा स्फुटीभवति ।
पण्डितराजं जगन्नाथं विहाय प्रायः सर्वैरपि पूर्वाचार्यैः काव्यलक्षणे शब्दार्थयोः द्वयोरपि संकलनं विधीयते । प्राचीनाचार्यो भामहः काव्यालंकारे काव्यलक्षणम् अभिधत्तेः ।

शब्दार्थौ सहितौ काव्यम् । [5]

  • # वामनादिभिरपि शब्दार्थयोः काव्यत्वं स्वीक्रियते । तद् यथा- काव्यशब्दोऽयं गुणालंकारसंस्कृतयोः शब्दार्थयो-र्वर्त्तते। [6]
  • # शब्दार्थौ काव्यम् ।[7]
  • # अदोषौ सगुणौ सालंकारौ च शब्दार्थौ काव्यम् । (हेमचन्द्र)
  • # शब्दार्थौ निर्दोषौ सगुणौ प्रायः सालंकारौ च काव्यम् । (वाग्भट)
  • # गुणालंकार-सहितौ शब्दार्थौ दोषवर्जितौ । (विद्याधर-प्रतापरुद्र)
  • # शब्दार्थौ वपुरस्य तत्र विबुधैरात्माभ्यधायि ध्वनिः।(विद्याधर-एकावलि)

शब्दार्थयोः समन्वयः काव्यमिति । अर्थानुकूलं शब्दप्रयोगः, शब्दानुरुपं चार्थ इति अत्राभिमतम् । आचार्यो दण्डी भामहस्य शब्दार्थौ इति विशदयन् आह –

शरीरं तावदिष्टार्थ-व्यवच्छिन्ना पदावली । [8]

अत्र शब्दार्थयोः समन्वयेन काव्यस्य शरीरमेव निर्धार्यते । अतएव आनन्दवर्धनाचार्यः शब्दार्थशरीरं तावत् काव्यम् इति व्याहरन् शब्दार्थयोः पृथक् काव्यस्य आत्मानं मनुते । काव्यस्य शरीरज्ञानेऽपि तत्र कः आत्मा इति न निश्चप्रचं ज्ञायते ।
काव्यस्य आत्मा – परवर्तिभिराचार्यैः कः काव्यस्य आत्मा इति गवेषयद्भिर्बहुधा स प्रस्तूयते । वामनः रीतिरात्मा काव्यस्य इति निगदन् रीतिमेव काव्यात्मरुपेण स्वीकरोति । रीतिशब्देन शैली भाषासौन्दर्यं सालंकृतित्वं चाभीष्यते । वामनेनोच्यते –
काव्यशब्दोऽयं गुणालंकारसस्कृतयोः शब्दार्थयोर्वर्त्तते, भक्त्या तु शब्दार्थमात्रवचनो गृह्यते ।
उद्भटोऽपि गुणालंकारसंस्कृतयोः शब्दार्थयोर्वर्त्तते, भक्त्या तु शब्दार्थरमात्रवचनो गृह्यते ।
उद्भटोऽपि गुणालंकारयोः समरुपेण काव्ये स्थितिं स्वीकरोति । रुद्रटः शब्दार्थौ काव्यम् इति अबिदधत् काव्ये शब्दार्थयोर्महत्त्वं निर्दिशति ।
आनन्दवर्धनाचार्यः काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः ।[9] इति व्याहरन् ध्वनिमेव काव्यस्यात्मरुपेण प्रतिपाद्यते । राजशेखरः काव्यमीमांसायां काव्यपुरुषं साङ्गोपाङ्गं प्रस्तौति ।
शब्दार्थौ ते शरीरम्, संस्कृतं मुखम्, प्राकृतं बाहु, रस आत्मा, रोमाणि छन्दांसि, अनुप्रासोपमादयश्च त्वामलंकुर्वन्ति ।
अत्र रस आत्मा इत्यनेन काव्ये रसस्य आत्मत्वम् ऊरीकरोति । आचार्यः कुन्तकः वक्रोक्तिः काव्यजीवितम् इति साधयति । उच्यते च तेन –

शब्दार्थौ सहितौ वक्र-कविव्यापारशालिनि । बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ।। [10]

क्षेमेन्द्रश्च औचित्यविचारचर्चायाम् औचित्यं काव्यजीवितम् इति साधयति उक्तं च तेन –

काव्यस्यालमलंकारैः किं मिथ्यागुणितैर्गुणैः ।
यस्य जीवितमौचित्यं विचिन्त्यापि न दृश्यते ।।
अलंकारस्त्वलंकारा गुणा एव गुणाः सदा ।
औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ।। [11]

मम्मटः – काव्यशास्त्रे मुख्यत्वेन आचार्यमम्मटस्य लक्षणं स्वीक्रियते उद्ध्रियते प्रस्तूयते च –

तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि । काव्यप्रकाश 1-4

लक्षणमेतत् काव्यस्य स्वरुपं सर्वाङ्गत्वेन व्यवस्थापयति । अतएव काव्यशास्त्रज्ञैर्लक्षणमेतद् बाहुल्येन स्वीक्रियते । अत्र पूर्वाचार्यौः स्वीकृतं शब्दार्थयोर्महत्त्वं पूर्ववद् उपस्थाप्यते । काव्ये प्रसादादिगुणानां महत्त्वमत्र स्वीक्रियते । काव्ये उत्कटदोषाभावेऽपि विशेषतोऽवधानं दत्तम् । अनलंकृती पुनः क्वापि इत्यनेनालंकाराणां गौणत्वं प्रतिपाद्यते । तदभावेऽपि न काव्यत्वक्षतिः ।
आचार्यो मम्मटः –
अदोषौ सगुणौ सालंकारौ च शब्दार्थौ काव्यम् । काव्यानु. ।
विश्वनाथः –
आचार्य-विश्वनाथस्य काव्यलक्षणं प्रायो विद्वद्भिः प्रशस्यते –
वाक्यं रसात्मकं काव्यम् । [12]

रस एवात्मा साररुपतया जीवनाधायको यस्य । तेन विना तस्य काव्यत्वाभावस्य प्रतिपादितत्वात् । रस्यते इति रसः इति व्युत्पत्तियोगाद् भावतदाबासादयोऽपि गृह्यन्ते । (विश्वनाथ)

अत्र ध्वनिकारैः प्रतिपादितो रसध्वनिरेव काव्यत्वेन स्वीक्रियते । अग्निपुराणेऽपि रसस्य महत्त्वं प्राप्यते – वाग्वेदग्ध्यप्रधानेऽपि रस एवात्र जीवितम् । भरतेनाप्युच्यते – नहि रसाद् ऋते कश्चिदर्थः प्रवर्तते । एवं विचार्यते चेत् तर्हि ज्ञायते यद् विश्वनाथेन पूर्वाचार्यैः अङ्गीकृतं काव्यस्य रसात्मकत्वं स्फुटं प्रतिपादितम् । तैत्तिरीयोपनिषदि रसो वै सः (तै. 2-7) इति ब्रह्म रसरुपेण प्रतिपाद्यते, तत्प्राप्तिसाधनत्वेन काव्यमपि रसात्मकमिष्यते । रस्यते आस्वाद्यते इति रसः इति लक्षणयन् आचार्यो भरतः काव्यम् आस्वादनीयं मनुते । एवमपि विश्वनाथकृतं लक्षणम् उचितं प्रतिभाति ।

जगन्नाथः – रसगङ्गाधरकर्तुः पण्डितराजजगन्नाथस्यापि काव्यलक्षणं बहसंमतम् आदरास्पदं च –

रमणीयार्थप्रतिपादकः शब्दः काव्यम् ।

अत्राभिव्यक्तेः प्राधान्यम्, स्फुटं सुन्दरं सहृदयग्राहि च वर्णनं काव्यस्य मुख्यता स्वीक्रियते । जगन्नाथो रमणीयार्थप्रतिपादकं शब्दमेव काव्यं मनुते, न चार्थम् । तस्माद् वेदशास्त्रपुराणलक्षणस्येव काव्यलक्णस्यापि शब्द-निष्ठतैवोचिता इति व्याहरता तेन शब्दस्यैव काव्यत्वं प्रतिपाद्यते । तस्य टीकाकरो नागेशभट्टः शब्दार्थयोः काव्यत्वं साधयन् मम्मटं समर्थयति – तेनानुपहसनीयकाव्यत्वलक्षणं प्रकाशोक्तम् निर्बाधम् इति ।

काव्यलक्षणविषये संस्कृतज्ञानां नैकमत्यम् । केचन मम्मटं विश्वनाथं केचन च जगन्नाथं साधिष्ठं मन्यन्ते । सर्वविषयावगाहित्वेन मम्मटलक्षणं साधिष्ठम्, सुगमार्थतया रसस्य मुख्यत्वेन च विश्वनाथः, अभिव्यक्तेः कलापक्षस्य कल्पनापक्षस्य चोद्भावनया जगन्नाथः सर्वातिशायी । जगन्नाथ-लक्षणं पाश्चात्यकाव्य-तत्त्वज्ञैः साम्यं भजते । कल्पनानुभूतिजन्य-विचाराणां मधुराभिव्यक्ति-कलैव कवितेति साधिष्ठा व्याख्या । तद्यथा –

Poetry is the art of expressing in melodious words, thoughts which are the creations of imagination and feelings. (Chamber’s Dictionary)

સંદર્ભગ્રંથ :

  1. 1. काव्यप्रकाशः 1-2।
  2. 2. काव्यप्रकाशः 1-1 ।
  3. 3. नाट्यशास्त्रम् ।
  4. 4. अग्निपुराणम्,337-607 ।
  5. 5. काव्यालंकारः, 1-16 ।
  6. 6. काव्यालङ्कारसूत्रवृत्तिः,1-1 ।
  7. 7. रुद्रट-काव्यालंकारः, 2-1 ।
  8. 8. काव्यादर्शः, 1-10 ।
  9. 9. ध्वन्यालोकः 1-1 ।
  10. 10. वक्रोक्तिजीवितम्, 1-7 ।
  11. 11. औचित्यविचारचर्चा. 4-5 ।
  12. 12. साहित्यदर्पणः, 1-3 ।

हार्दिकः जी. जोषी, अध्यापनम् (साहित्यशास्त्रम्), श्रीमारुतिकुरियर, जे.के. कोम्पलेक्ष, एस.बी.आई. मार्ग, पोलिस्टेशन समिपम्, ता. राजुला, जनपदम्. अमरेली, क्रमाङ्कः- 365560